भ्रमराम्बाष्टकम्

 

भ्रमराम्बाष्टकम्

 

 

चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं

चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।

चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १॥

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं

कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीटिकाम् ।

लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २॥

राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां

राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।

राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३॥

षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां

षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।

षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४॥

श्रीनाथादृतपालितात्रिभुवनां श्रिचक्रसंचारिणीं

ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।

दीनानामातिवेलभाग्यजननीं दिव्याम्बरालंकृतां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५॥

लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं

सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।

भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६॥

धन्यां सोमविभावनीयचरितां धाराधरश्यामलां

मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम् ।

कन्यापूजनपुप्रसन्नहृदयां काञ्चीलसन्मध्यमां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७॥

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां

कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।

कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८॥

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां

गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।

गङ्गागौत्मगर्गसंनुतपदां गां गौतमीं गोमतीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ भ्रमराम्बाष्टकं सम्पूर्णम् ॥

Comments

Popular posts from this blog

साधनाओ के कुछ नियम जो आवश्यक होते है

नवग्रहस्तोत्रम्

विवाह रुकावटें