नवग्रहस्तोत्रम्
नवग्रहस्तोत्रम्
ज्योतिर्मण्डलमध्यगं गदहरं लोकैकभास्वन्मणिं
मेषोच्चं
प्रणतिप्रियं द्विजनुतं छायपतिं वृष्टिदम् ।
कर्मप्रेरकमभ्रगं शनिरिपुं प्रत्यक्षदेवं रविं
ब्रह्मेशानहरिस्वरूपमनङ्हं सिंहेशसूर्यं भजे ॥ १॥
चन्द्रं शङ्करभूषणं मृगधरं जैवातृकं रञ्जकं
पद्मासोदरमोषधीशममृतं श्रीरोहिणीनायकम् ।
शुभ्राश्वं क्षयवृद्धिशीलमुडुपं सद्बुद्धिचित्तप्रदं
शर्वाणीप्रियमन्दिरं बुधनुतं तं कर्कटेशं भजे ॥ २॥
भौमं शक्तिधरं त्रिकोणनिलयं रक्ताङ्गमङ्गारकम् ।
भूदं
मङ्गलवासरं ग्रहवरं श्रीवैद्यनाथार्चकम् ।
क्रूरं षण्मुखदैवतं मृगगृहोच्चं रक्तधात्वीश्वरं
नित्यं
वृश्चिकमेषराशिपतिमर्केन्दुप्रियं भावये ॥ ३॥
सौम्यं सिंहरथं बुधं कुजरिपुं श्रीचन्द्रतारासुतं
कन्योच्चं
मगधोद्भवं सुरनुतं पीतांबरं राज्यदम् ।
कन्यायुग्मपतिं कवित्वफलदं मुद्गप्रियं बुद्धिदं
वन्दे तं गदिनं
च पुस्तककरं विद्याप्रदं सर्वदा ॥ ४॥
देवेन्द्रप्रमुखार्च्यमानचरणं पद्मासने संस्थितं
सूर्यारिं
गजवाहनं सुरगुरुं वाचस्पतिं वज्रिणम् ।
स्वर्णाङ्गं धनुमीनपं कटकगेहोच्चं तनूजप्रदं
वन्दे
दैत्यरिपुं च भौमसुहृदं ज्ञानस्वरूपं गुरुम् ॥ ५॥
शुभ्राङ्गं नयशास्त्रकर्तृजयिनं संपत्प्रदं भोगदं
मीनोच्चं
गरुडस्थितं वृषतुलानाथं कलत्रप्रदम् ।
केन्द्रे मङ्गलकारिणं शुभगुणं लक्ष्मीसपर्याप्रियं
दैत्यार्च्यं
भृगुनन्दनं कविवरं शुक्रं भजेऽहं सदा ॥ ६॥
आयुर्दायकमाजिनैषधनुतं भीमं तुलोच्चं शनिं
छायासूर्यसुतं
शरासनकरं दीपप्रियं काश्यपम् ।
मन्दं माषतिलान्नभोजनरुचिं नीलांशुकं वामनं
शैवप्रीतिशनैश्चरं शुभकरं गृध्राधिरूढं भजे ॥ ७॥
वन्दे रोगहरं करालवदनं शूर्पासने भासुरं
स्वर्भानुं
विषसर्पभीतिशमनं शूलायुधं भीषणम् ।
सूर्येन्दुग्रहणोन्मुखं बलमदं दत्याधिराजं तमं
राहुं तं
भृगुपुत्रशत्रुमनिशं छायाग्रहं भावये ॥ ८॥
गौरीशप्रियमच्छकाव्यरसिकं धूम्रध्वजं मोक्षदं
केन्द्रे
मङ्गलदं कपोतरथिनं दारिद्र्यविध्वंसकम् ।
चित्राङ्गं नरपीठगं गदहरं दान्तं कुलुत्थप्रियं
केतुं ज्ञानकरं
कुलोन्नतिकरं छायाग्रहं भावये ॥ ९॥
सर्वोपास्यनवग्रहाः।! जडजनो जाने न युष्मद्गुणान्
शक्तिं वा
महिमानमप्यभिमतां पूजां च दिष्टं मम ।
प्रार्थ्यं किन्नु कियत् कदा बत कथं किं साधु वाऽसाधु किं
जाने नैव
यथोचितं दिशत मे सौख्यं यथेष्टं सदा ॥ १०॥
नित्यं नवग्रहस्तुतिमिमां देवालये वा गृहे
श्रद्धाभक्तिसमन्वितः पठति चेत् प्राप्नोति नूनं जनः ।
दीर्घं चायुररोगतां शुभमतिं कीर्तिं च संपच्चयं
सत्सन्तानमभीष्टसौख्यनिवहं सर्वग्रहानुग्रहात् ॥ ११॥
॥ इति
श्रीनवग्रहस्तोत्रं संपूर्णम॥
Comments
Post a Comment