महालक्ष्मी कवचम
महालक्ष्मी कवचम
महालक्ष्मी कवचम्
नारायण उवाच
सर्व सम्पत्प्रदस्यास्य कवचस्य
प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवी पद्मालया
स्वयम् ॥१॥
धर्मार्थकाममोक्षेषु विनियोगः
प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥२॥
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्
।
श्रीं मे पातु कपालं च लोचने श्रीं
श्रियै नमः ॥३॥
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं
सदावतु ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै
स्वाहा मे पातु नासिकाम् ॥४॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तं
सदावतु ।
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं
सदावतु ॥५॥
ॐ श्रीं नारायणेशायै मम कण्ठं सदावतु ।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदावतु
॥६॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं
सदावतु ।
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः
सदावतु ॥७॥
ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा
पृष्ठं सदावतु ।
ॐ ह्रीं श्रीं श्रियै स्वाहा मम हस्तौ
सदावतु ॥८॥
ॐ श्रीं निवासकान्तायै मम पादौ सदावतु ।
ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा
सर्वांगं मे सदावतु ॥९॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां
कमलालया ।
पद्मा मां दक्षिणे पातु नैर्ऋत्यां
श्रीहरिप्रिया ॥१०॥
पद्मालया पश्चिमे मां वायव्यां पातु श्रीः
स्वयम् ।
उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका
॥११॥
नारायणेशी पातूर्ध्वमधो विष्णुप्रियावतु
।
संततं सर्वतः पातु विष्णुप्राणाधिका मम
॥१२॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम्
॥१३॥
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं
द्विजातये ।
यत् फलं लभते धर्मी कवचेन ततोऽधिकम्
॥१४॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु
यः ।
कण्ठे वा दक्षिणे वाहौ स श्रीमान्
प्रतिजन्मनि ॥१५॥
अस्ति लक्ष्मीर्गृहे तस्य निश्चला
शतपूरुषम् ।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽत्रध्यो
निश्चितं भवेत् ॥१६॥
स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु
दीक्षितः ।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले
॥१७॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत्
॥१८॥
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं
जगत्प्सूम् ।
कोटिसंख्यं प्रजप्तोऽपि न मन्त्रः
सोद्धिदायकः ॥१९॥
Comments
Post a Comment