भविष्यपुराणान्तर्गतसूर्यसहस्रनामस्तोत्रम्

 

भविष्यपुराणान्तर्गतसूर्यसहस्रनामस्तोत्रम्

 

। अथ भविष्यपुराणान्तर्गतसूर्यसहस्रनामस्तोत्रम् ।

ॐ विश्वजिद् विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।

विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।

महायोगी महाबुद्धिर्महात्मा सुमहाबलः ॥ २॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।

भूतभव्यो भावितात्मा भूतान्तःकरणः शिवः ॥ ३॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।

वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥

वाक्प्राणः परमः प्राणः प्रीतात्मा प्रियतः प्रियः ।

नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५॥

अव्यङ्गधारी धीरात्मा प्रचेता वायुवाहनः ।

समाहितमतिर्धाता विधाता कृतमङ्गलः ॥ ६॥

कपर्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः ।

समायुक्तो विमुक्तात्मा कृतात्मा कृतिनांवरः ॥ ७॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।

कान्तः कामादिरादित्यो नियतात्मा निराकुलः ॥ ८॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।

सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९॥

संजीवनो जीवनाथो जगज्जीवो जगत्पतिः ।

अजयो विश्वनिलयः संविभागो वृषध्वजः ॥ १०॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।

एकचक्ररथो मौनी सुरथो रथिनांवरः ॥ ११॥

अक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।

दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पतिः ॥ १२॥

धीरानाथो हविर्होता दिव्यबाहुर्दिवाकरः ।

यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावहः ॥ १३॥

परापरज्ञस् तरणिरंशुमाली मनोहरः ।

प्राज्ञः प्रजापतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४॥

सदागतिर्गन्धबाहुर्विहितो विधिराशुगः ।

पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।

त्र्यंबकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।

कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः ॥ १७॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरंदरः ।

सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।

श्रीमांश्च शिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।

कामचारो महामायो महेशो विदिताशयः ॥ २०॥

तीर्थक्रियावान् सुनयो विभवो भक्तवत्सलः ।

कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परंतपः ।

बुद्धिमान् अमरश्रेष्ठो रोचिष्णुः पातशासनः ॥ २२॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।

तमोघ्नो ध्वान्तहा वह्निर्होतान्तःकरणो गुहः ॥ २३॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतांवरः ।

नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४॥

अजितो विजयो जेता जङ्गमस्थावरात्मकः ।

जीवानन्दो नित्यकामी विजेता विजयप्रदः ॥ २५॥

पर्जन्योऽग्निः स्थितिस्थेयः स्थविरोऽणुर्निरञ्जनः ।

प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६॥

ध्रुवो मेधी महावीर्यो हंसः संसारतारकः ।

सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतांपतिः ॥ २७॥

मरुत्वान् दहनः स्पष्टा भगो भाग्योऽर्यमापतिः ।

वरुणांशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥

विवस्वान् भानुमान् कार्यकारणं तेजसांनिधिः ।

असङ्गवामी तिग्मांशुर्धर्मादिर्दीप्तदीधितिः ॥ २९॥

सहस्रदीधितिर्भघ्नः सहस्रांशुर्दिवाकरः ।

गभस्तिमान् दीधितिमान् स्रग्विमान् अतुलद्युतिः ॥ ३०॥

भास्करः सुरकार्यज्ञः सर्वज्ञस् तीक्ष्णदीधितिः ।

सुरज्येष्ठः सुरपतिर्बहुज्ञोवचसांपतिः ॥ ३१॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।

अहिमानूर्जितो धीमान् आमुक्तः कीर्तिवर्धनः ॥ ३२॥

महावैद्याग्रेणपतिर्गणेशो गणनायकः ।

तीव्रप्रतापनस् तापी तापनो विश्वतापनः ॥ ३३॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽभिनन्दितः ।

पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणी विराट् ।

आमुक्तः कवची वाग्मी कञ्चुकी विश्वभावनः ॥ ३५॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।

विगाहीरेणुरसहः समायुक्तः समाहितः ॥ ३६॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमोयमः ।

प्रणतार्तिहरो वादी सिद्धकार्यो जनेश्वरः ॥ ३७॥

नभो विगाहनः सत्यः स्थामसः सुमनो हरः ।

हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ ३८॥

सुखसेव्यो महातेजा जगतामन्तकारणम् ।

महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९॥

सहस्रकल आयुष्मान् अरोषः सुखदः सुखी ।

व्याधिहा सुखदः सौख्यं कल्याणः कल्पिनांवरः ॥ ४०॥

आरोग्यकर्मणां सिद्धिर्वृद्धिरृद्धिरहस्पतिः ।

हिरण्यरेता आरोग्यं विद्वान् बन्धुर्बुधो महान् ॥ ४१॥

प्रणवान् धृतिमान् धर्मो धर्मकर्ता रुचिप्रदः ।

सर्वप्रियः सर्वसहः सर्वशत्रुनिवारुणः ॥ ४२॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृतिः ।

केयूरभूषणोद्भासी भासितो भासनोऽनलः ॥ ४३॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।

सर्वद्योतोऽमवद्द्योतः सर्वद्युतिकरोऽमलः ॥ ४४॥

कल्याणः कल्याणकरः कल्पः कल्पकरः कविः ।

कल्याणकृत् कल्पवपुः सर्वकल्याणभाजनः ॥ ४५॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।

उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥

वर्चस्वी वर्चसामीशस् त्रैलोक्येशो वशानुगः ।

तेजस्वी सुयशावर्णिर्वर्णाध्यक्षो बलिप्रियः ॥ ४७॥

यशस्वी वेदनिलयस् तेजस्वी प्रकृतिस्थितः ।

आकाशगः शीघ्रगतिराशुगः श्रुतिमान् खगः ॥ ४८॥

गोपतिर्ग्रहदेवेशो गोमान् एकः प्रभञ्जनः ।

जनिताप्रजगण्डीवो दीपः सर्वप्रकाशकः ॥ ४९॥

कर्मसाक्षी योगनित्यो नभस्वान् असुरान्तकः ।

रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५०॥

मरीचिमाली सुमतिः कृतातिथ्योऽविशेषतः ।

शिष्टाचारः शुभाकारः स्वाचारा चारतत्परः ॥ ५१॥

मन्दारो माठरो रेणुः क्षोभणः पक्षिणाङ्गुरुः ।

स्वविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२॥

महाश्वेता प्रियो ङ्य़ेयः सामगो मोददायकः ।

सर्ववेदप्रगीतात्मा सर्ववेदो गयालयः ॥ ५३॥

वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारगः ।

क्रियावान् अतिरोचिष्णुर्वरीयांश्च वरप्रदः ॥ ५४॥

व्रतधारी व्रतधरो लोकबन्धुरलंकृतः ।

अलंकाराक्षरो दिव्यविद्यावान् विदिताशयः ॥ ५५॥

अकारो भूषणो भूष्यो भूष्णुर्भवनपूजितः ।

चक्रपाणिर्वज्रधरः सुवेशो लोकवत्सलः ॥ ५६॥

राङ्य़ीपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।

अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७॥

अप्रमेयः सदायोगी निरहंकार ईश्वरः ।

शुभप्रदः शुभशोभा शुभकर्मा शुभास्पदः ॥ ५८॥

सत्यवान् धृतिमान् अर्च्यो ह्यकारो वृद्धिदोऽनलः ।

बलभृद् बलगो बन्धुर्बलवान् हरिणांवरः ॥ ५९॥

अनङ्गोऽनागराणिन्द्रः पद्मयोनिर्गणेश्वरः ।

संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६०॥

पद्मेक्षरः पद्मयोनिः प्रभवोऽनसरद्युतिः ।

सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१॥

पीतवासाः कृष्णवासा दिग्वासातीन्द्रियो हरिः ।

अतीन्द्रोऽनेकरूपात्मा स्कन्दः परपुरंजयः ॥ ६२॥

शक्तिमान् सूरधृग् भास्वान् मोक्षहेतुरयोनिजः ।

सर्वदर्शोऽदितो दर्शो दुःस्वप्नाशुभनाशनः ॥ ६३॥

माङ्गल्यकर्ता करणिर्वेगवान् कश्मलापहः ।

स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४॥

विश्वकर्मा महाशक्तिर्ज्योतिरीशविहंगमः ।

विचक्षणो दक्ष इन्द्रः प्रत्यूहः प्रियदर्शनः ॥ ६५॥

अश्विनौ वेदनिलयो वेदविद् विदिताशयः ।

प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६॥

कुबेरसुरथः स्कन्दो महितोऽभिहितो गुहुः ।

ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डनः ॥ ६७॥

भास्करः सततानन्दो नन्दनो नन्दिवर्धनः ।

मङ्गलोऽप्यथ मङ्गलवान् माङ्गल्योऽमङ्गलापहः ॥ ६८॥

मङ्गलाचारचरितः शीर्णः सर्वव्रतो व्रती ।

चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९॥

अकिञ्चनः सत्यसन्धो निर्गुणो गुणवान् गुणी ।

सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७०॥

सहस्रांशुः क्रतुपतिः सर्वस्वं सुमतिः सुवाक् ।

सुभामनो माल्यदामा घृताहारो हरिप्रियः ॥ ७१॥

ब्रह्मप्रचेता प्रथितः प्रतीतात्मा स्थिरात्मकः ।

शतबिन्दुः शतमखो गरीयान् अनलप्रभुः ॥ ७२॥

धीरो महत्तरो धन्यः पुरुषः पुरुषोत्तमः ।

विद्याधराधिराजोऽहिविद्यावान् भूतिदस्थितः ॥७३॥

अनिर्देश्यवपुः श्रीमान् विश्वात्मा बहुमङ्गलः ।

सुस्थितः सुरथः स्वर्णो मोक्षाधारनिकेतनः ॥ ७४॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशयः ।

दयालुः सूक्ष्मरीः शान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५॥

भूतरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।

महावराहः प्रियकृद् धाता भोक्ताभयप्रदः ॥ ७६॥

चतुर्वेदधरो नित्यो विनिद्रो विविधाशनः ।

चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ॥ ७७॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।

सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८॥

निष्कलः पुष्करनिभो वसुमान् वासवप्रियः ।

वसुमान् वासवस्वामी वसुराता वसुप्रदः ॥ ७९॥

बलवान् ज्ञानवांस्तत्त्वम् ओंकारस् तृषुसंस्थितः ।

संकल्पयोनिर्दिनकृद् भगवान् कारणावहः ॥ ८०॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।

वषट्कारो हुतं होता स्वाहाकारो हुताहुतिः ॥ ८१॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।

स्वर्णाङ्गक्षपणो वायुः सुरा सुरनमस्कृतः ॥ ८२॥

विग्रहो विमलो बिन्दुर्विशोको विमलद्युतिः ।

द्योतितो द्योतनो विद्वान् विविद्वान् वरदो बली ॥ ८३॥

धर्मयोनिर्महामोहो विष्णुभ्राता सनातनः ।

सावित्रीभावितो राजा विसृतो विघृणी विराट् ॥ ८४॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।

सम्पन्नोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।

सुमेधा माधवो मेध्यो मेधावी मधुसूदनः ॥ ८६॥

अङ्गिरा गतिकालज्ञो धूमकेतुसुकेतनः ।

सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७॥

संतापनः संतपन आतपी तपसांपतिः ।

उग्रश्रवा सहस्रोस्रः प्रियङ्कारो प्रियङ्करः ॥ ८८॥

प्रीतो विमन्युरम्भोदो जीवनो जगतांपतिः ।

जगत्पिता प्रीतमनाः सर्वः शर्वो गुहावलः ॥ ८९॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।

श्रेयः श्रेयस्करो ज्यायानुत्तमोत्तम उत्तमः ॥ ९०॥

उत्तमोऽथ महामेरुर्धारणो धरणीधरः ।

धाराधरो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१॥

रथाध्यक्षो रथपतिस् त्वरमाणोऽमितानलः ।

उत्तरोऽनुत्तरस् तापी तारापतिरपांपतिः ॥ ९२॥

पुण्यसंकीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।

स्वर्भानुर्विहगारिष्टो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजिताम्बरः ।

एकनाथो रथाधीशः शनैश्चरपितासितः ॥ ९४॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।

प्रलम्बहारः संचारी प्रद्योतो द्योतितोऽनलः ॥ ९५॥

संतानकृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।

श्रेष्ठात्मा सुप्रियः शम्भुर्महतामीश्वरेश्वरः ॥ ९६॥

संसारगतिविच्छेता संसारार्णवतारकः ।

सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।

लोकसाक्षी लोकगुरुर्लोकेशश् छन्दवाहनः ॥ ९८॥

धर्मरूपः सूक्ष्मवायुर्धनुष्पाणिर्धनुर्धरः ।

पिनाकधृन् महोत्साहो नैकमायो महाशनः ॥ ९९॥

वारः शक्तिमतांश्रेष्ठः सर्वशस्त्रभृतांवरः ।

ज्ञानगम्यो दुराराध्यो लोहिताङ्गोऽरिमर्दनः ॥ १००॥

अनन्तो धर्मदो नित्यो धर्मकृच्चित् त्रिविक्रमः ।

दैवत्रस् त्र्यक्षरो मध्यो नीलाङ्गो नीललोहितः ॥ १०१॥

एकोऽनेकस् त्रयीव्यासः सविता समितिञ्जयः ।

शार्ङ्गधन्वानलो भीमः सर्वप्रहरणायुधः ॥ १०२॥

परमेष्ठी परंज्योतिर्नाकपाली दिवस्पतिः ।

वदान्यो वासुकिर्वैद्य आत्रेयोऽतिपराक्रमः ॥ १०३॥

द्वापरः परमोदारः परमब्रह्मचर्यवान् ।

उद्दीप्तवेषो मुकुटी पद्महस्तोऽहिमांशुभृत् ॥ १०४॥

स्मितः प्रसन्नवदनः पद्मोदरनिभाननः ।

सायंदिवा दिव्यवपुरनिर्देश्यो महारथः ॥ १०५॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।

धृतातपत्रः प्रतिमो विमर्शी निर्णयस्थितः ॥ १०६॥

अहिंसकः शुद्धमतिरद्वितीयो विमर्दनः ।

सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७॥

ग्रहनाथो ग्रहपतिर्ग्रहेशस् तिमिरापहः ।

मनो हरवपुः शुभ्रः शोभनः सुप्रभाननः ॥ १०८॥

सुप्रभः सुप्रभाकारः सुनेत्रो निक्षुभापतिः ।

राङ्य़ीप्रियः शब्दकरो ग्रहेशस् तिमिरापहः ॥ १०९॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।

चतुर्भुजो महायोगी योगीश्वरपतिस् तथा ॥ ११०॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।

जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।

निरालम्बो गगनरो धर्मकर्मप्रभावकृत् ॥ ११२॥

धर्मात्मा कर्मणांसाक्षी प्रत्यक्षः परमेश्वरः ।

मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥

आधारभूको रतिमांस्तथा च धनधान्यकृत् ।

पापसंतापसंहर्ता मनोवांछितदायकः ॥ ११४॥

लोकहर्ता राज्यदायी रमणीयगुणोऽनृणी ।

कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५॥

संध्यारागकरः सिद्धः संध्यावन्दनवन्दितः ।

साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६॥

भक्तदुःखक्षयकरो भवसागरतारकः ।

भयापहर्ता भगवान् अप्रमेयपराक्रमः ॥ ११७॥

मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११८॥

॥ इति श्री भविष्ये महापुराणे सूर्यसहस्रनाम स्तोत्रं सम्पूर्णम्

 

 

Comments

Post a Comment

Popular posts from this blog

साधनाओ के कुछ नियम जो आवश्यक होते है

नवग्रहस्तोत्रम्

विवाह रुकावटें